ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ।।१ ।।
ऋतं वच्मि ।। सत्यं वच्मि ॥ २ ॥
अव त्वं माम् ॥ अव वक्तारम् । अव श्रोतारम् ।। अव दातारम् ॥ अव धातारम् ॥ अवान्चानमव शिष्यम् ॥ अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
त्वं वाङ्मयस्त्वं चिन्मयः ॥ त्वमानन्दमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानन्दाद्वितीयोऽसि ॥ त्वं प्रत्यक्षं ब्रह्मासि ॥ त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनीलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः ॥ त्वमवस्थात्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधारस्थितोऽसि नित्यम् ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायन्ति नित्यम् ॥ त्वं ब्रह्माः त्वं विष्णुः त्वं रुद्रः त्वं इंद्रः त्वं अग्निः त्वं वायुः त्वं सूर्यः त्वं चंद्रमाः त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ॥ अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥ एतत्तव मनुस्वरूपम् ।। गकारः पूर्वरूपम् ॥ अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥ बिन्दुरुत्तररूपम् ॥ नादः सन्धानम् ॥ संहिता सन्धिः ॥ सैषा गणेशविद्या ॥ गणक ऋषिः ॥ निचृद्गायत्रीच्छन्दः ॥ गणपतिर्देवता ॥ ॐ गँ गणपतये नमः ॥७॥
एकदन्ताय विद्महे | वक्रतुण्डाय धीमहि ॥ तन्नो दंती प्रचोदयात् ॥ ८ ॥
एकदन्तं चतुर्हस्तं पाशमंकुशधारिणम् ॥ रदं च वरदं हस्तैर् बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्तांगं रक्तपुष्पैः सुपुजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
नमो व्रातपतये । नमो गणपतये ॥ नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदन्ताय । विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १० ॥
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते सि सर्वविघ्नैर्न बाध्यते ॥ स सर्वतः सुखमेधते ॥ स पञ्चमहापापात् प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायं प्रातः प्रयुञ्जानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम् ॥ यो यदि मोहाद्दास्यति । स पापीयान् भवति ।। सहस्रवर्तनात् । यं यं काममधीते ॥ तं तमनेन साधयेत् ।। ११ ।।
अनेन गणपतिमभिषिंचति ॥ स वाग्मी भवति ॥ चतुर्थ्यामनश्रन् जपति ।। स विद्यावान् भवति ॥ इत्यथर्वण-वाक्यम् ॥ ब्रह्माद्यावरणं विद्यात् ।। न विभेति कदाचनेति ॥ १२ ॥
यो दूर्वांकुरैर्यजति ॥ स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति । स यशोवान् भवति ॥ स मेधावान् भवति ॥ यो मोदकसहस्रेण यजति । स वाञ्छितफलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजति । स सर्वं लभते ॥ स सर्वं लभते ।। १३ ।।
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा ॥ सूर्यवर्चस्वी भवति ॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा ॥ सिद्धमंत्रो भवति ॥ महाविघ्नात् प्रमुच्यते ॥ महादोषात् प्रमुच्यते । । महापापात् प्रमुच्यते ।। स सर्वविद् भवति ॥ स सर्वविद् भवति । य एवं वेद । इत्युपनिषत् ॥ १४ ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ।। तेजस्विनावधीतमस्तु ॥ मा विद्विषावहै । ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तभूनुभिः ॥ व्यशेम् देवहितं यदायुः ॥ १ ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ २ ॥ ॐ शान्तिः । शान्तिः । शान्तिः ॥